|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.12. अध्यायः 012
Mahabharata - Virata Parva - Chapter Topics
नकुलेन विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् ॥ 1 ॥ विराटेन नकुलस्याश्वपालने नियोजनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-12-0x(3031)(28619)
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति।
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 1 ॥ 4-12-1(28620)
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट्।
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ॥ 2 ॥ 4-12-2(28621)
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् ।
प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ॥ 3 ॥ 4-12-3(28622)
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः।
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ॥ 4 ॥ 4-12-4(28623)
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात्।
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ॥ 5 ॥ 4-12-5(28624)
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः।
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ॥ 6 ॥ 4-12-6(28625)
विराट उवाच। 4-12-7x(3032)
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि।
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ॥ 7 ॥ 4-12-7(28626)
नकुल उवाच। 4-12-8x(3033)
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ 8 ॥ 4-12-8(28627)
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ 9 ॥ 4-12-9(28628)
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः।
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ 10 ॥ 4-12-10(28629)
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता।
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ॥ 11 ॥ 4-12-11(28630)
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात्।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ॥ 12 ॥ 4-12-12(28631)
विराट उवाच। 4-12-13x(3034)
यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै।
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ 13 ॥ 4-12-13(28632)
इदं तवेष्टं विहितं सुरोपम ...हि यत्ते प्रसमीक्षितं वरम्।
...ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ॥ 14 ॥ 4-12-14(28633)
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ॥ 15 ॥ 4-12-15(28634)
वैशम्पायन उवाच । 4-12-16x(3035)
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः।
न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ॥ 16 ॥ ॥ 4-12-16(28635)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|